Sunday, December 20, 2015

संक्षिप्त कुशकंडिका एवं हवन पद्धति



आचार्य वरण –
आचार्यस्तु यथा स्वर्गे शक्रादीनां बृहस्पतिः
तथात्वं मम यज्ञेस्मिन् आचार्यो भव सुव्रत ।।

ब्रह्मा वरण –
यथा चतुर्मुखो ब्रह्मा वेदशास्त्र विशारदः
तथात्वं मम यज्ञेस्मिन् ब्रह्माभव द्विजोत्तमः ।।

(रक्षा विधान पीली सरसों अथवा अक्षत से)

ॐ आवाह्यामि तत्कुण्डं विश्वकर्मविनिर्मितं ।
शरीरं यच्च ते दिव्यमग्न्यधिष्ठान मद्भुतं ।

ये च कुण्डे स्थिता देवाः कुण्डान्गे याश्चदेवताः ।
ऋद्धिं यच्छन्तु ते सर्वे यज्ञसिद्धिं मुदान्विता ।।
हे कुण्ड तव निर्माण रचितं विश्वकर्मणा ।
अस्माकं वाञ्छितां सिद्धिं यज्ञसिद्धिं ददातु भोः ।।

                            

विश्वकर्मन्हविषा वर्द्धनेन त्रातारमिन्द्रमकृणोकरवद्धय्म ।
तस्मै विशः समनमन्त पूर्वीरमुग्रो विहव्योयथासत् ।।
उपयामगृहीतो सीन्द्राय त्वा विश्वकर्मण एषते
योनिरिन्द्राय त्वा विश्वकर्मणे ।। ॐ विश्वकर्मणे नमः ।
अज्ञानाञ्ज्ञानतो वापि दोषास्युः खननोद्भवाः ।
नाशाय त्वंहि तान्सर्वान्विश्वकर्मन्नमोस्तुते ।।

मेखला पूजन
प्रथम श्वेत मेखला विष्णुं ध्यानं
मध्य रक्त मेखला ब्रह्मा ध्यानं
बाह्य तृतीय कृष्ण वर्ण मेखला शिवं ध्यानं

योनि पूजा
ॐ जगदुत्पत्ति हेतुकायै मनोभवयुतायै योन्यै नमः ।
तत्र प्राक् दिशायां गोरीं पूजयेत ।
ॐ अम्बेअम्बिकेअम्बालिके नमानयतिकश्चन ।
ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीं ।। 
ॐ क्षत्रस्य योनिरसि क्षत्रस्यनाभिरसि मा त्वाहि ् सीन्मामा हि ् सीः ।।
योनिरित्येव विख्याता जगदुत्पत्ति हेतुका ।
मनोभवयुता देवी रतिसोख्य प्रदायिनी
मोहयित्री सुराणां च जगद्धात्री नमोस्तुते ।।


कुशकंडिका
ततो यथा परिमिते तुषकेशादिरहिते हस्तमात्रचतुरंगुलोच्छ्रितसंमृद्भिः निर्मिते शास्त्रशुद्धकुण्डे स्थण्डिले वा चतुरस्रां भूमिं त्रिभिः त्रिभिः कुशेः परिसमूह्य तान्कुशानेशान्यां परित्यज्य वं इत्यमृतबीजमुच्चारयन् गोमयोदकेनोपलिप्य खदिरस्रुवमूलेन प्रागग्रं प्रादेशमात्रमुत्तरोत्तरक्रमेण त्रिरुल्लिख्य उल्लेखनक्रमेणैव ह्रींइति मायाबीजमुच्चारयन्ननामिकांगुष्ठाभ्यां मृदमुदधृत्य उदकेन न्युब्जपाणिनाऽभ्युक्ष् सदाचारपञ्चमहायज्ञादिक्रियावतां ब्रह्मक्षत्रियविशां गृहात् कांस्यपात्रे ( नवीन शारावे वा ) सम्पुटेनाग्निमानीय कुण्डस्य स्थण्डिलस्य वाऽऽग्नेय्यां निधाय हुं फट्इति मन्त्रेण क्रव्यादाशं नैऋत्यां दिशि परित्यज्य,
ॐ अग्निन्दूतं पुरोदधे हव्यवाहमुपब्रुवे देवां २ ।। आसादयादिह ।
इति अग्नि संस्थाप्य
  १.    कनकायै नमः
  २.    रक्तायै नमः
  ३.    कृष्णायै नमः
  ४.    उदरिण्यायै नमः
  ५.    सुप्रभायै नमः
  ६.    बहुरूपायै नमः
  ७.    अतिरिक्तायै नमः
(भविष्य पुराण, मध्यं पर्व, द्वितीय भाग मे अग्नि के नाम क्रमशः “हिरण्या कनका रक्ता आरक्ता सुप्रभा बहुरूपा सती”इत्यादि दिये गये हैं )

अग्न्यानयनपात्रे साक्षतोदकं निषिच्य ततस्तत्र प्रोक्षतेन्धनानि प्रक्षिपेत्।

ततः प्रज्वलितेऽग्नौ अग्निमुखं कृत्वा ध्यायेत् ॐ चत्वारि श्रृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य त्रिधा बद्धो वृषभो रोरवीति महादेवो मर्त्या ँ आविवेश । ॐ भूर्भुवःस्वः अग्ने वैश्वानर शाण्डिल्यगोत्र शाण्डिलासित देवलेति त्रिप्ररान्वित भुमिमातः वरुणपितः मेषध्वज प्राङ्मुख मम सम्मुखो भव इति वरदानामानमग्निं प्रतिष्ठाप्यः ।

ॐ अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनं ।
हिरण्यवर्णममलं समृद्धं विश्वतोमुखं ।।

प्रणीता प्रोक्षणी पात्रं संस्थापयेत

ॐ आवाहयाम्यहम् देवं स्रुवं शेवधिमुत्तमम् ।
स्वाहाकार स्वधाकार वषट्कार समन्वितं ।।स्रुवं आवाहयामि
त्रिस्तापित्वा (स्रुव को ३ बार तपाये फ़िर पूजन करके पुनः ३ बार तपाये)
************
वामहस्ते कृत्वा प्रजापतिं मनसा ध्यात्वा तूष्णीमग्नौ घृताक्तः समिधस्तिस्रः क्षिपेत् ।

।। अथ होमः ।।
तत्रादो घृताहुतिः
अग्नेरुत्तरभागे --ॐ प्रजापतये स्वाहा, इति मनसा इदं प्रजापतये न मम इत्युच्चैः प्रोक्षण्यां त्यागः ।
अग्नेर्दक्षिणभागे अग्नये स्वाहा, इदं अग्नये न मम ।
ॐ सोमाय स्वाहा, इदं सोमाय न मम ।इत्याज्यभागौ ।
ॐ भूः स्वाहा , इदं अग्नये न मम ।
ॐ भुवः स्वाहा , इदं वायवे न मम ।
ॐ स्वः स्वाहा , इदं सूर्याय न मम , एता महाव्याहृतयः

ॐ यथा बाणप्रहाराणां कवचं वारकं भवेत् । तद्वद्देवोपघातानां शान्तिर्भवति वारिका ।। शान्तिरस्तु पुष्टिरस्तु यत्पापं रोगं अकल्याणम् तद्दूरे प्रतिहतमस्तु, द्विपदे चतुष्पदे सुशान्तिर्भवतु,


।।अथ सर्वप्रायश्चित्तसंज्ञक पञ्चवारुण होमः ।।    
ॐ त्वन्नो अग्ने वरुणस्य विद्वान देवस्य हेडो अवियासि सीष्ठाः यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषा ँ सि प्रमुमुग्ध्यस्मत्स्वाहा।इदमग्नीवरुणाभ्यां न मम ।। १ ।।

ॐ स त्वन्नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ । अवयक्ष्व नो वरुण ँ रराणो वोहि मृडीक ँ सुहवो न एधि स्वाहा । इदमग्नीवरुणाभ्यांन मम ।। २ ।।

ॐ अयाश्चाग्नेऽस्य नभिशस्तिपाश्च सत्यमित्वमया असि । अयानो यज्ञं वहास्ययानो धेहि भेषज ँ स्वाहा ।इदमग्नये नमः ।। ३ ।।

ॐ ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता महान्तः । तेभिर्नो अद्य सवितोत विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वर्काः स्वाहा । इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यश्च न मम ।। ४ ।।

ॐ उदुत्तमं वरुण पाशमस्मदवाधमं विमध्यम ँ श्रथाय । अथा वयमादित्य व्रते तवानागसो अदितये स्याम स्वाहा । इदं वरुणाय न मम ।। ५ ।।

अत्रोदकस्पर्शः इति पञ्च वारुणी होमः ।


नवग्रहादि होम
अधिदेवता होम
प्रत्यधिदेवता होम
पञ्चलोकपाल देवता होम
दश दिक्पाल देवता होम
भद्र मण्डल देवता होम
प्रधान देवता होम    



दश दिक्पाल होमः
  १.    पूर्वे इन्द्राय नमः
  २.    आग्नेयां अग्नि देवाय नमः
  ३.    दक्षिणे यमाय नमः
  ४.    नैऋत्ये नैऋत्याय  नमः
  ५.    पश्चिमे वरुणाय नमः
  ६.    वायव्यां वायवे नमः
  ७.    उत्तरे कुबेराय नमः
  ८.    ईशानं ईशानाय नमः
  ९.    आकाशे ब्रह्मणे नमः (ईशान पूर्व मध्य)
  १०.पाताले अनन्ताय नमः (नैऋत्य पश्चिम मध्य)
      क्षेत्रपाल बलि चोमुखा दीपक लगाकर 

।। अथ पूर्णाहुति होमः ।।

ॐ मूर्द्धानमिति मन्त्रस्य भारद्वाज ऋषिः वैश्वानरो देवता त्रिष्टुप् छन्दः पूर्णाहुति होमे विनियोगः ।

ॐ मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आजातमग्निम् । कवि ँ सम्राजमतिथिञ्जनानामासान्ना पात्रं जनयन्त देवाः ।। ॐ पूर्णा दर्वि परापत सुपूर्णा पुनरापत वस्नेव विक्रीणा वह इषमूर्ज ँ शतक्रतो स्वाहा , इत्यग्नौ पाणिद्वयेन प्रक्षिपेत् ।

सम्पूर्ण घृताहुति ॐ वसोः पवित्रमसि शतधारं वसोः पवित्रमसि सहस्रधारम् । देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुप्वा कामधुक्षः स्वाहा, इदं वाजादिभ्योऽग्नये विष्णवे रुद्राय सोमाय वैश्वानराय च न मम ।

अग्निप्रार्थना --  ॐ श्रद्धां मेधां यशः प्रज्ञां विद्यां पुष्टिं श्रियं बलम् । तेज आयुष्यमारोग्यं देहि मे हव्यवाहन ।।
भो भो अग्ने ! महाशक्ते सर्व कर्मप्रसाधन ।  कर्मान्तरेऽपि संप्राप्ते सान्निध्यं कुरु सर्वदा ।।

अथ भस्मवन्दनम् ॐ त्र्यायुखं जमदग्नेरिति ललाटे । कश्यपस्य त्र्यायुखमिति ग्रीवायाम् । यद्देवेषु त्र्यायुखमिति दक्षिणबाहुमूले । तन्नो अस्तु त्र्यायुखमिति हृदि वामस्कन्धे च ।

छायापात्र दानम् ॐ आज्यं सुराणामाहारमाज्यं पापहरं परम् । आज्यमध्ये मुखं दृष्ट्वा सर्वपापैः प्रमुच्यते ।।       
घृतं नाशयते व्याधिं घृतञ्च हरते रुजम् । घृतं तेजोधिकरणम् घृतं आयुः प्रवर्द्धते ।।

ये मां रोगाः प्रबाधन्ते देहस्थाः सततं मम
ते सर्वे नाशमायान्तु च्छायापात्र प्रदानतः ।।
इति मुखं दृष्ट्वा हिरण्यं पञ्चरत्नानि वा प्रक्षिपेत् 





हमारे ब्राह्मणों से पूजन हवन अनुष्ठान रुद्राभिषेक इत्यादि स्वयं के लिए अथवा अपने प्रियजनों के लिए करवाने के लिए निम्नलिखित जानकारी दें ।
(यदि आप स्वयं उपस्थित हो सकें तो अधिक उत्तम है ।
यदि किसी कारण स्वयं उपस्थित न हो सके तो निम्नलिखित जानकारी दें ।)
1, आपका पता - मकान न०, गली न०, मोहल्ला,शहर, ज़िला, राज्य आदि । (आपको प्रसाद इसी पते पर भिजवाया जाएगा)
2, आपका गोत्र ।
3, आपका नाम तथा आपके परिवार के अन्य सदस्यों के नाम ।
4, आपका whatsapp नम्बर ।
5, आपकी जन्म कुंडली या जन्म समय, जन्म तारीख, जन्म स्थान ।
6, आपकी फोटो ।



हमारा संपर्क सूत्र –         9464532794            7888548882



No comments:

Post a Comment