Showing posts with label नवग्रहमण्डल. Show all posts
Showing posts with label नवग्रहमण्डल. Show all posts

Sunday, December 20, 2015

नवग्रहमण्डल


ॐ आवाहितसूर्यादिनवग्रहेभ्यो देवेभ्यो नमः

 ब्रह्मा मुरारिस्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्च
गुरुश्च  शुक्रः  शनिराहुकेतवः  सर्वे ग्रहः शान्तिकरा भवन्तु ।।

केतु –


ॐ केतुं कृण्वन्निति मन्त्रस्य मधुच्छन्द ऋषिः गायत्री छन्दः केतुर्देवता केतु प्रीत्यर्थे जपे विनियोगः ।।

ब्रह्मणः कुलसंभूतम् विष्णुलोकभयावहम्
शिखिनन्तु महाकायं केतुमावाहयाम्यहम् ।।

राहु –


ॐ कया नश्चित्रेति मन्त्रस्य वामदेव ऋषिः गायत्री छन्दः राहुर्देवता राहु प्रीत्यर्थे जपे विनियोगः ।।

सिंहिकासुत राहवे नमः

चक्रेण छिन्नमूर्द्धानं विष्णुना च निरीक्षितम्
सैंहिकेयं    महाकायं   राहुमावाहयाम्यहम् ।।

शनि –


ॐ शन्नो देवीति मन्त्रस्य सिन्धुद्वीप ऋषिः गायत्रीछन्दः आपो देवता शनि प्रीत्यर्थे जपे विनियोगः ।।

सूर्यपुत्र शनेश्चराय नमः
  
प्रदीप्तवह्निवर्णाभं नीलाञ्जनसमप्रभम्
छायामार्तण्डसम्भूतं शनिमावाहयाम्यहम् ।।

शुक्र –


ॐ अन्नात्परिस्रुतेति मन्त्रस्य प्रजापति ऋषिः अनुष्टुप्छन्दः शुक्रो देवता शुक्र प्रीत्यर्थे जपे विनियोगः ।।

दैत्याचार्य भार्गवाय नमः
  
प्रविश्य जठरे शम्भोर्निषक्रान्तः पुनरेव यः
आचार्यमसुरादीनां    शुक्रमावाहयाम्यहम् ।।

बृहस्पति –


ॐ बृहस्पतेति मन्त्रस्य गृत्समद ऋषिः अनुष्टुप्छन्दः ब्रह्मा देवता बृहस्पति प्रीत्यर्थे जपे विनियोगः ।।

ॐ देवाचार्य बृहस्पतये नमः

गुरुश्रेष्ठं गिरः पुत्रं देवानां च पुरोहितम्
शक्रस्य मन्त्रिणं श्रेष्ठं गुरुमावाहयाम्यहम् ।।

बुध –


ॐ उद्बुध्यस्वेति मन्त्रस्य परमेष्ठी प्रजापति ऋषिः त्रिष्टुप्छन्दः बुधो देवता बुध प्रीत्यर्थे जपे विनियोगः ।।

चन्द्रपुत्र बुद्धाय नमः

बुधं बुद्धिप्रदातारं सोमवंशविवर्धनम्
यजमानहितार्थाय बुधमावाहयाम्यहम् ।।

मङ्गल –


ॐ अग्निर्मूर्द्धेति मन्त्रस्य विरूपाङ्गिरस ऋषिः अग्निर्देवता गायत्री छन्दः भौम प्रीत्यर्थे जपे विनियोगः ।।

ॐ मङ्गलाय नमः
ऋणहर्तवे नमः
धनप्रदाय नमः

चन्द्र –


ॐ इमन्देवेतिमन्त्रस्य गौतम ऋषिः सोमो देवता विराट छन्दः सोमं प्रीत्यर्थे जपे विनियोगः ।।

ॐ चन्द्रमस्यै नमः, अत्रिपुत्राय नमः, सागरोद्भवाय नमः

हिमरश्मिं निशानाथं तारिकापतिमुत्तमम्
ओषधीनां च राजानं चन्द्रमावाहयाम्यहम् ।।

सूर्य

ग्रहाधीनं जगत्सर्वं ग्रहाधीना नरावराः

कालज्ञानं ग्रहाधीनं ग्रहाः कर्मफ़ल प्रदाः ।।

एहि सूर्य ! सहस्रांशो ! तेजोराशे ! जगत्पते ! अनुकम्पय मां भक्त्या गृहाणार्घ्यं दिवाकर ।।