Sunday, December 20, 2015

संकल्प



ॐ स्वस्ति श्री समस्त जगदुत्पत्तिस्थितिलयकारणस्य रक्षा शिक्षा विचक्षणस्य प्रणतपारिजातस्य अशेषपराक्रमस्य श्रीमदनन्तवीर्यस्यादि नारायणस्य अचिन्त्यापरिमितशक्त्या ध्रियमाणानां महाजलौघमध्ये परिभ्रमताम् अनेककोटि ब्रह्माण्डानाम्
एकतमे अव्यक्त महदहंकार पृथिव्यप्तेजो वाय्वाकाशाद्यावरणैरावृते अस्मिन् महति ब्रह्माण्डखण्डे आधारशक्तिश्रीमदादि वाराह दंष्ट्राग्र विराजिते कूर्मानन्त वासुकि तक्षक कुलिक कर्कोटक पद्म महापद्म शङ्खाद्यष्ट महानागैर्ध्रियमाणे एरावत पुण्डरीक वामन कुमुदाञ्जन पुष्पदन्त सार्वभौम सुप्रतीकाष्टदिग्गजोपरिप्रतिष्ठितानाम् अतल वितल सुतल तलातल रसातल महातल पाताल लोकानामुपरिभागे पुण्यकृन्निवासभूत भूर्लोक भुवर्लोक स्वर्लोक महर्लोक जनोलोक तपोलोक  सत्यलोकाख्यसप्तलोकानामधोभागे चक्रवालशैलमहावलयनागमध्यवर्तिनो महाकाल महाफणिराजशेषस्य सहस्त्रफणामणिमण्डलमण्डिते दिग्दन्तिशुण्डादण्डोद्दन्डिते अमरावत्यशोकवती भोगवती सिद्धवती गान्धर्ववती काञ्ची अवन्ती अलकावती यशोवतीतिपुण्यपुरीप्रतिष्ठि ते लोकालोकाचलवलयिते लवणेक्षु सुर सर्पि दधि क्षीरोदकार्णवपरिवृते जम्बू प्लक्ष कुश क्रोञ्च शाक शाल्मलिपुष्कराख्यसप्तद्वीपयुते इन्द्र कांस्य ताम्र गभस्ति नाग सोम्य गन्धर्व चारणभारतेतिनवखण्डमण्डिते सुवर्णगिरिकर्णिकोपेतमहासरोरुहाकारपञ्चाशत् कोटियोजनविस्तीर्णभूमण्डले अयोध्या मथुरा माया काशी काञ्ची अवन्तिकापुरी द्वारावतीतिमोक्षदायिकसप्तपुरीप्रतिष्ठिते सुमेरु निषधत्रिकूट रजतकूटाम्रकूट चित्रकूट हिमवद्विन्ध्याचलानां महापर्वत प्रतिष्ठिते हरिवर्षकिं पुरुषभारतवर्षयोश्च दक्षिणे नवसहस्रयोजन विस्तीर्णे मलयाचल सह्याचल विन्ध्याचलानामुत्तरे स्वर्णप्रस्थ चण्डप्रस्थ चान्द्र सूक्तावन्तक रमणक महारमणक पाञ्चजन्य सिंहल लङ्केति नवखण्डमण्डिते गंगा भागीरथी गोदावरी क्षिप्रा यमुना सरस्वती नर्मदा ताप्ती चन्द्रभागा कावेरी पयोष्णी कृष्णा वेण्या भीमरथी तुंगभद्रा ताम्रपर्णी विशालाक्षी चर्मण्वती वेत्रवती कौशिकी गण्डकी विश्वामित्रीसरयूकरतोया ब्रह्मानन्दामहीत्यनेकपुण्यनदीविराजिते दण्डक विन्ध्यक चम्पक बदरिक महीलांगुहेक्षुक नैमिष कदलिक देवदार्वाख्यदशारण्ययुते भारतवर्षे सकल देवतानां निवासभूमौ, वेदभूमौ श्रीभगवतो महापुरुषस्य नाभिसरोरुहादुत्पन्नस्य तदाज्ञया प्रवर्तमाने सकलजगत्स्रष्टुः परार्धद्वयजीविनो ब्रह्मणः प्रथमे परार्धे पंचाशदब्दात्मिके व्यतीते द्वितीये परार्धे रथन्तरादिद्वात्रिंशतकल्पानांमध्ये अष्टमे श्वेतवाराहकल्पे प्रथमे वर्षे प्रथम मासे प्रथम पक्षे प्रथमे दिवसे अह्नि द्वितीये यामे तृतीये मुहूर्ते स्वायम्भुव स्वारोचिषोत्तम् तामस रैवत चाक्षुषाख्येषु षट्सु मनुषु व्यतीतेषु सप्तमे वैवस्वतमन्वन्तरे कृत त्रेताद्वापरकलिसंज्ञकानां चतुर्णां युगानां मध्ये वर्तमाने अष्टाविंशतितमे कलियुगे प्रथमे पादे महर्षि ज्ञानयुगीयवैदिकविश्वप्रशासनस्य राजधान्यां पूर्णभूमौ, भारतवर्षस्य ब्रह्मस्थाने, महर्षि वेद विज्ञान विश्व विद्यापीठ परिसरे चान्द्र सौरसावनमानानां प्रभवादि षष्ठि सम्वत्सराणां मध्ये_________ सम्वत्सरे________ उत्तरसहस्रद्वयपरिमिते वैक्रमाब्दे ____________ उत्तर एकोनविंशतिशततमे शालिवाहन शकाब्दे ________ उत्तर एक पञ्चाशच्छततमेयुधिष्ठिर सम्वत्सरे उत्तर पञ्चविंशतिशततमे आद्यशङ्कराचार्य सम्वत्सरे महर्षि ज्ञानयुगीय __________सम्वत्सरे ________अयने ________ऋतो _______मासे _______पक्षे ________तिथौ ______वासरे _______नक्षत्रे ________योगे _________करणे ________राशिस्थितेश्रीचन्द्रे ________रशिस्थितेश्रीसूर्ये _________रशिस्थितेश्रीभौमे _________रशिस्थितेश्रीबुधे _________रशिस्थितेश्रीदेवगुरौ _________रशिस्थितेश्रीशुक्रे _________रशिस्थितेश्रीशनौ _________रशिस्थितेश्रीराहौ _________रशिस्थितेश्रीकेतौ एवं ग्रहगणगुणविशेषण विशिष्टायां पुण्यायां पुण्यकालेमहापुण्य शुभतिथौ _____________  
(मेष ते मीन पर्यन्तअश्विनी ते रेवती पर्यन्तसूर्य ते केतु पर्यन्तदशा अन्तर्दशा प्रत्यन्तर्दशा सूक्ष्मान्तर्दशागोचरे त्वा त्वा) _______ नक्षत्रे _______ योगे ________ करणे _______ रशिस्थितेचन्द्रे  _______रशिस्थितेसूर्ये ________रशिस्थितेदेवगुरौ शेषेषु ग्रहेषु यथायथा राशिस्थानस्थितेषु सत्सु एवं ग्रहगुणगणविशेषणविशिष्टे अस्मिन् शुभक्षणे ______गोत्रोत्पन्नः ______शर्म्माहं वा (नामाहंसपत्नीकः श्रुतिस्मृतिपुराणोक्त पुण्यफलप्राप्त्यर्थं मम सकुटुम्बस्य एश्वर्याभिवृद्यर्थं अप्राप्तलक्ष्मीप्राप्त्यर्थं प्राप्तलक्ष्म्याचिरकालसंरक्षणार्थं सकलमनईप्सितकामनासंसिद्ध्यर्थं लोके वा सभायां राजद्वारे वा सर्वत्र यशोविजय लाभादि प्राप्त्यर्थं पुत्रपोत्राद्यभिवृद्यर्थं च इह जन्मनिजन्मान्तरे वा सकलदुरितोपशमनार्थं तथा मम सभार्यस्य सपुत्रस्य सबान्धवस्य अखिल कुटुम्बस्य समस्तभयव्याधिजरापीडामृत्युपरिहार द्वारा आयुरारोग्यैश्वर्याभि वृद्यर्थं मम समस्तजन्मराशे अखिल कुटुम्बस्य च जन्मराशेः सकाशाद्ये केचिविरुद्ध् चतुर्थाष्टमद्वादशस्थानस्थित क्रूरग्रहास्तैः संसूचितं संसूचयिष्यमाणंयत्सर्वाष्टिं तद्विनाश द्वारा एकादश स्थानस्थितवच्छुभफलप्राप्त्यर्थं पुत्रपौत्रादिसन्तते रविच्छिन्नभिवृद्यर्थं आधिदैविकाधिभौतिकाध्यात्मिक त्रिविध तापोपशमनार्थं धर्मार्थकाममोक्ष चतुर्विध पुरुषार्थसिद्धयर्थं भगवान  ___________ प्रीत्यर्थं _____यथौपचारैः पूजन पूर्वकं दुग्धधारया जलधारया च _____संख्याकब्राह्मणद्वारा _______अभिषेकं कर्म करिष्ये ।।
***************
तत्राधिकारप्राप्त्यर्थं कायिकवाचिक मानसिक सान्सर्गिकदोषोपशमनार्थं शरीरशुद्धयर्थं च गोनिष्क्रयीभूतं द्रव्यं यथानाम गोत्राय ब्राह्मणायदातुमहमुत्सृजे तथा च निर्विघ्नतासिद्धयर्थं भगवान ______पूजनं करिष्ये ।।



  

अथवा 




ॐ विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य श्री ब्रह्मणोऽह्निद्वितीयपरार्द्धे श्री श्वेतवाराहकल्पे सप्तमे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे कलिप्रथमचरणे जम्बूद्वीपे भरतखण्डे भारतवर्षे आर्यवर्तैकदेशान्तर्गते कुरुक्षेत्र निकटे दक्षिण पृथोदके अमुकक्षेत्रे भागीरथ्याः अमुकतीरे विक्रमशके बौद्धावतारे ______सम्वत्सरे _____अयने ____ऋतौ महामाङ्गल्यप्रदमासोत्तमे मासे ______पुण्यपवित्रे मासे शुभे ______पक्षे _______तिथौ _______वासरे (मेष ते मीन पर्यन्त, अश्विनी ते रेवती पर्यन्त, सूर्य ते केतु पर्यन्त, दशा अन्तर्दशा प्रत्यन्तर्दशा सूक्ष्मान्तर्दशा, गोचरे त्वा त्वा) _______नक्षत्रे _______योगे ________करणे _______रशिस्थितेचन्द्रे  _______रशिस्थितेसूर्ये ________रशिस्थितेदेवगुरौ शेषेषु ग्रहेषु यथायथा राशिस्थानस्थितेषु सत्सु एवं ग्रहगुणगणविशेषणविशिष्टे अस्मिन् शुभक्षणे ______गोत्रोत्पन्नः ______शर्म्माहं वा (नामाहं) सपत्नीकः श्रुतिस्मृतिपुराणोक्त पुण्यफलप्राप्त्यर्थं मम सकुटुम्बस्य एश्वर्याभिवृद्यर्थं अप्राप्तलक्ष्मीप्राप्त्यर्थं प्राप्तलक्ष्म्याचिरकालसंरक्षणार्थं सकलमनईप्सित- कामनासंसिद्ध्यर्थं लोके वा सभायां राजद्वारे वा सर्वत्र यशोविजय लाभादि प्राप्त्यर्थं पुत्रपोत्राद्यभिवृद्यर्थं च इह जन्मनिजन्मान्तरे वा सकलदुरितोपशमनार्थं तथा मम सभार्यस्य सपुत्रस्य सबान्धवस्य अखिल कुटुम्बस्य समस्तभयव्याधिजरापीडामृत्युपरिहार द्वारा आयुरारोग्यैश्वर्याभि वृद्यर्थं मम समस्तजन्मराशे अखिल कुटुम्बस्य च जन्मराशेः सकाशाद्ये केचिविरुद्ध् चतुर्थाष्टमद्वादशस्थानस्थित क्रूरग्रहास्तैः संसूचितं संसूचयिष्यमाणंयत्सर्वाष्टिं तद्विनाश द्वारा एकादश स्थानस्थितवच्छुभफलप्राप्त्यर्थं पुत्रपौत्रादिसन्तते रविच्छिन्नभिवृद्यर्थं आधिदैविकाधिभौतिकाध्यात्मिक त्रिविध तापोपशमनार्थं धर्मार्थकाममोक्ष चतुर्विध पुरुषार्थसिद्धयर्थं भगवान  ___________ प्रीत्यर्थं _____यथौपचारैः पूजन पूर्वकं दुग्धधारया जलधारया च _____संख्याकब्राह्मणद्वारा _______अभिषेकं कर्म करिष्ये ।।
***************
तत्राधिकारप्राप्त्यर्थं कायिकवाचिक मानसिक सान्सर्गिकदोषोपशमनार्थं शरीरशुद्धयर्थं च गोनिष्क्रयीभूतं द्रव्यं यथानाम गोत्राय ब्राह्मणायदातुमहमुत्सृजे तथा च निर्विघ्नतासिद्धयर्थं भगवान ______पूजनं करिष्ये ।।



हमारे ब्राह्मणों से पूजन हवन अनुष्ठान रुद्राभिषेक इत्यादि स्वयं के लिए अथवा अपने प्रियजनों के लिए करवाने के लिए निम्नलिखित जानकारी दें ।

(यदि आप स्वयं उपस्थित हो सकें तो अधिक उत्तम है ।
यदि किसी कारण स्वयं उपस्थित न हो सके तो निम्नलिखित जानकारी दें ।)
1, आपका पता - मकान न०, गली न०, मोहल्ला,शहर, ज़िला, राज्य आदि । (आपको प्रसाद इसी पते पर भिजवाया जाएगा)
2, आपका गोत्र ।
3, आपका नाम तथा आपके परिवार के अन्य सदस्यों के नाम ।
4, आपका whatsapp नम्बर ।
5, आपकी जन्म कुंडली या जन्म समय, जन्म तारीख, जन्म स्थान ।
6, आपकी फोटो ।


हमारा संपर्क सूत्र –         9464532794            7888548882

5 comments: