आचार्य वरण –
आचार्यस्तु यथा स्वर्गे शक्रादीनां बृहस्पतिः ।
तथात्वं मम यज्ञेस्मिन् आचार्यो भव सुव्रत ।।
ब्रह्मा वरण –
यथा चतुर्मुखो ब्रह्मा वेदशास्त्र विशारदः ।
तथात्वं मम यज्ञेस्मिन् ब्रह्माभव द्विजोत्तमः ।।
(रक्षा विधान पीली सरसों अथवा अक्षत से)
ॐ आवाह्यामि तत्कुण्डं विश्वकर्मविनिर्मितं ।
शरीरं यच्च ते दिव्यमग्न्यधिष्ठान – मद्भुतं ।
ये च कुण्डे स्थिता देवाः कुण्डान्गे याश्चदेवताः ।
ऋद्धिं यच्छन्तु ते सर्वे यज्ञसिद्धिं मुदान्विता ।।
हे कुण्ड तव निर्माण रचितं विश्वकर्मणा ।
अस्माकं वाञ्छितां सिद्धिं यज्ञसिद्धिं ददातु भोः ।।
ॐ विश्वकर्मन्हविषा वर्द्धनेन
त्रातारमिन्द्रमकृणोकरवद्धय्म ।
तस्मै विशः समनमन्त पूर्वीरमुग्रो विहव्योयथासत् ।।
उपयामगृहीतो सीन्द्राय त्वा विश्वकर्मण एषते
योनिरिन्द्राय त्वा विश्वकर्मणे ।। ॐ विश्वकर्मणे
नमः ।
अज्ञानाञ्ज्ञानतो वापि दोषास्युः खननोद्भवाः ।
नाशाय त्वंहि तान्सर्वान्विश्वकर्मन्नमोस्तुते ।।
मेखला पूजन
प्रथम श्वेत मेखला विष्णुं ध्यानं
मध्य रक्त मेखला ब्रह्मा ध्यानं
बाह्य तृतीय कृष्ण वर्ण मेखला शिवं ध्यानं
योनि पूजा
ॐ जगदुत्पत्ति हेतुकायै मनोभवयुतायै योन्यै नमः ।
तत्र प्राक् दिशायां गोरीं पूजयेत ।
ॐ अम्बेअम्बिकेअम्बालिके नमानयतिकश्चन ।
ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीं ।।
ॐ क्षत्रस्य योनिरसि क्षत्रस्यनाभिरसि मा त्वाहि ् सीन्मामा
हि ् सीः ।।
योनिरित्येव विख्याता जगदुत्पत्ति हेतुका ।
मनोभवयुता देवी रतिसोख्य प्रदायिनी
मोहयित्री सुराणां च जगद्धात्री नमोस्तुते ।।