Sunday, December 20, 2015

संक्षिप्त कुशकंडिका एवं हवन पद्धति



आचार्य वरण –
आचार्यस्तु यथा स्वर्गे शक्रादीनां बृहस्पतिः
तथात्वं मम यज्ञेस्मिन् आचार्यो भव सुव्रत ।।

ब्रह्मा वरण –
यथा चतुर्मुखो ब्रह्मा वेदशास्त्र विशारदः
तथात्वं मम यज्ञेस्मिन् ब्रह्माभव द्विजोत्तमः ।।

(रक्षा विधान पीली सरसों अथवा अक्षत से)

ॐ आवाह्यामि तत्कुण्डं विश्वकर्मविनिर्मितं ।
शरीरं यच्च ते दिव्यमग्न्यधिष्ठान मद्भुतं ।

ये च कुण्डे स्थिता देवाः कुण्डान्गे याश्चदेवताः ।
ऋद्धिं यच्छन्तु ते सर्वे यज्ञसिद्धिं मुदान्विता ।।
हे कुण्ड तव निर्माण रचितं विश्वकर्मणा ।
अस्माकं वाञ्छितां सिद्धिं यज्ञसिद्धिं ददातु भोः ।।

                            

विश्वकर्मन्हविषा वर्द्धनेन त्रातारमिन्द्रमकृणोकरवद्धय्म ।
तस्मै विशः समनमन्त पूर्वीरमुग्रो विहव्योयथासत् ।।
उपयामगृहीतो सीन्द्राय त्वा विश्वकर्मण एषते
योनिरिन्द्राय त्वा विश्वकर्मणे ।। ॐ विश्वकर्मणे नमः ।
अज्ञानाञ्ज्ञानतो वापि दोषास्युः खननोद्भवाः ।
नाशाय त्वंहि तान्सर्वान्विश्वकर्मन्नमोस्तुते ।।

मेखला पूजन
प्रथम श्वेत मेखला विष्णुं ध्यानं
मध्य रक्त मेखला ब्रह्मा ध्यानं
बाह्य तृतीय कृष्ण वर्ण मेखला शिवं ध्यानं

योनि पूजा
ॐ जगदुत्पत्ति हेतुकायै मनोभवयुतायै योन्यै नमः ।
तत्र प्राक् दिशायां गोरीं पूजयेत ।
ॐ अम्बेअम्बिकेअम्बालिके नमानयतिकश्चन ।
ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीं ।। 
ॐ क्षत्रस्य योनिरसि क्षत्रस्यनाभिरसि मा त्वाहि ् सीन्मामा हि ् सीः ।।
योनिरित्येव विख्याता जगदुत्पत्ति हेतुका ।
मनोभवयुता देवी रतिसोख्य प्रदायिनी
मोहयित्री सुराणां च जगद्धात्री नमोस्तुते ।।

नवग्रहमण्डल


ॐ आवाहितसूर्यादिनवग्रहेभ्यो देवेभ्यो नमः

 ब्रह्मा मुरारिस्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्च
गुरुश्च  शुक्रः  शनिराहुकेतवः  सर्वे ग्रहः शान्तिकरा भवन्तु ।।

केतु –


ॐ केतुं कृण्वन्निति मन्त्रस्य मधुच्छन्द ऋषिः गायत्री छन्दः केतुर्देवता केतु प्रीत्यर्थे जपे विनियोगः ।।

ब्रह्मणः कुलसंभूतम् विष्णुलोकभयावहम्
शिखिनन्तु महाकायं केतुमावाहयाम्यहम् ।।

राहु –


ॐ कया नश्चित्रेति मन्त्रस्य वामदेव ऋषिः गायत्री छन्दः राहुर्देवता राहु प्रीत्यर्थे जपे विनियोगः ।।

सिंहिकासुत राहवे नमः

चक्रेण छिन्नमूर्द्धानं विष्णुना च निरीक्षितम्
सैंहिकेयं    महाकायं   राहुमावाहयाम्यहम् ।।

शनि –


ॐ शन्नो देवीति मन्त्रस्य सिन्धुद्वीप ऋषिः गायत्रीछन्दः आपो देवता शनि प्रीत्यर्थे जपे विनियोगः ।।

सूर्यपुत्र शनेश्चराय नमः
  
प्रदीप्तवह्निवर्णाभं नीलाञ्जनसमप्रभम्
छायामार्तण्डसम्भूतं शनिमावाहयाम्यहम् ।।

शुक्र –


ॐ अन्नात्परिस्रुतेति मन्त्रस्य प्रजापति ऋषिः अनुष्टुप्छन्दः शुक्रो देवता शुक्र प्रीत्यर्थे जपे विनियोगः ।।

दैत्याचार्य भार्गवाय नमः
  
प्रविश्य जठरे शम्भोर्निषक्रान्तः पुनरेव यः
आचार्यमसुरादीनां    शुक्रमावाहयाम्यहम् ।।

बृहस्पति –


ॐ बृहस्पतेति मन्त्रस्य गृत्समद ऋषिः अनुष्टुप्छन्दः ब्रह्मा देवता बृहस्पति प्रीत्यर्थे जपे विनियोगः ।।

ॐ देवाचार्य बृहस्पतये नमः

गुरुश्रेष्ठं गिरः पुत्रं देवानां च पुरोहितम्
शक्रस्य मन्त्रिणं श्रेष्ठं गुरुमावाहयाम्यहम् ।।

बुध –


ॐ उद्बुध्यस्वेति मन्त्रस्य परमेष्ठी प्रजापति ऋषिः त्रिष्टुप्छन्दः बुधो देवता बुध प्रीत्यर्थे जपे विनियोगः ।।

चन्द्रपुत्र बुद्धाय नमः

बुधं बुद्धिप्रदातारं सोमवंशविवर्धनम्
यजमानहितार्थाय बुधमावाहयाम्यहम् ।।

मङ्गल –


ॐ अग्निर्मूर्द्धेति मन्त्रस्य विरूपाङ्गिरस ऋषिः अग्निर्देवता गायत्री छन्दः भौम प्रीत्यर्थे जपे विनियोगः ।।

ॐ मङ्गलाय नमः
ऋणहर्तवे नमः
धनप्रदाय नमः

चन्द्र –


ॐ इमन्देवेतिमन्त्रस्य गौतम ऋषिः सोमो देवता विराट छन्दः सोमं प्रीत्यर्थे जपे विनियोगः ।।

ॐ चन्द्रमस्यै नमः, अत्रिपुत्राय नमः, सागरोद्भवाय नमः

हिमरश्मिं निशानाथं तारिकापतिमुत्तमम्
ओषधीनां च राजानं चन्द्रमावाहयाम्यहम् ।।